|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.36. अध्यायः 036
Mahabharata - Vana Parva - Chapter Topics
भीमयुधिष्ठिरसंवादसमयसंनिहितेन व्यासेन युधिष्ठिराय प्रतिस्मृतिविद्योपदेशः ॥ 1 ॥ युधिष्ठिरेण व्यासवचनात्परिजनैः सह द्वैतवनात्काम्यककवनगमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-36-0x(1862)(17082)
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः।
निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः ॥ 3-36-1(17083)
श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक्।
आयत्यां च तदात्वे च यः पश्यति स पश्यति ॥ 3-36-2(17084)
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम्।
कथं बलात्करिष्यामि मेरोरिव विवर्तनम् ॥ 3-36-3(17085)
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्।
भीमसेनमिद वाक्यमपदान्तरमब्रवीत् ॥ 3-36-4(17086)
एवमेतन्महाबाहो यथा वदसि भारत।
इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद ॥ 3-36-5(17087)
महापापानि कर्माणि यानि केवलसाहसात्।
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥ 3-36-6(17088)
सुमन्त्रिते सुविक्रान्ते सुकृतेसुविचारिते।
सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥ 3-36-7(17089)
यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम्।
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्रमे ॥ 3-36-8(17090)
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान्।
भीष्मो द्रोणश्च कर्णशच् द्रोणपुत्रश्च वीर्यवान् ॥ 3-36-9(17091)
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः।
सर्व एव कृताशस्त्राश्च सततं चाततायिनः ॥ 3-36-10(17092)
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः।
ते श्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् ॥ 3-36-11(17093)
दुर्योधनहिते युक्ता न तथाऽस्मासु भारत।
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥ 3-36-12(17094)
सर्वे कौरवसैन्यस् सपुत्रामात्यसैनिकाः।
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥ 3-36-13(17095)
दुर्योधनेन ते वीरा मानिताश्च विशेषतः।
प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः ॥ 3-36-14(17096)
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च।
द्रोणस् च महाबाहो कृषस्य च महात्मनः ॥ 3-36-15(17097)
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः।
तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् ॥ 3-36-16(17098)
सर्वेदिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः।
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥ 3-36-17(17099)
अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः।
सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः ॥ 3-36-18(17100)
अनिर्जित्यरणे सर्वानेतान्पुरुषसत्तमान्।
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥ 3-36-19(17101)
न निद्रामधिगच्छामि चिन्तयानो वृकोदर।
अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥ 3-36-20(17102)
वैशम्पायन उवाच। 3-36-21x(1863)
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः।
बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः ॥ 3-36-21(17103)
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः।
आजगाम महायोगी व्यासः सत्यवतीसुतः ॥ 3-36-22(17104)
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः।
युधिष्ठिरमिदं वाक्यमुवाच वदतांवरः ॥ 3-36-23(17105)
युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्।
मनीषया तत क्षिप्रमागतोस्मि नरर्षभ ॥ 3-36-24(17106)
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत।
दुर्योधनान्नृपसुतात्तथा दुःशासनादपि ॥ 3-36-25(17107)
त्ते भयममित्रघ्न हृदि संपरिवर्तते।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ॥ 3-36-26(17108)
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय।
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि ॥ 3-36-27(17109)
तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम्।
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥ 3-36-28(17110)
श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम।
येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः ॥ 3-36-29(17111)
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमर्तामिव।
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ॥ 3-36-30(17112)
यामवाप्यमहाबाहुरर्जुनः साधयिष्यति।
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ॥ 3-36-31(17113)
वरुणं च कुबेरं च धर्मराजं च पाण्डव।
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥ 3-36-32(17114)
ऋषिरेष मेहातेजा नारायणसहायवान्।
पुराणः शास्वतो देवस्त्वजेयो जिष्णुरच्युतः ॥ 3-36-33(17115)
अस्त्राणीनद्राच्च रुद्राच्च लोकपालेभ्य एव च।
समादाय महाबाहुर्महत्कर्म करिष्यति ॥ 3-36-34(17116)
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्।
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥ 3-36-35(17117)
एकत्रचिरवासो हि न प्रीतिजननो भवेत्।
तापसानां च शान्तानां भवेदुद्वेगकारकः ॥ 3-36-36(17118)
मृगाणामुपरोधश्च वीरुदोषधिसंक्षयः।
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान् ॥ 3-36-37(17119)
वैशम्पायन उवाच। 3-36-38x(1864)
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः।
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥ 3-36-38(17120)
धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः।
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ 3-36-39(17121)
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः।
धारयामास मेधावी कालेकाले सदाऽभ्यसन् ॥ 3-36-40(17122)
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः।
ययौ सरस्वतीकूले काम्यकं नाम काननम् ॥ 3-36-41(17123)
तमन्वयुर्महाराज शिक्षाक्षरविशारदाः।
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥ 3-36-42(17124)
ततः काम्यकमासाद्य पुनस्ते भरतर्षभ।
न्यविशन्त महात्मानः सामान्याः सपदानुगाः ॥ 3-36-43(17125)
तत्रते न्यवसन्राजन्कंचित्कालं मनस्विनः।
धनुर्वेदपरा वीरा गृणाना वेदमुत्तमम् ॥ 3-36-44(17126)
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः।
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥ 3-36-45(17127)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-36-2 आयत्यामुत्तरकाले तदात्वे वर्तमानकाले। यस्तान्पश्यति ॥ 3-36-4 इति कृत्यतामितिकर्तव्यताम्। अपदान्तरमविलम्बितम् ॥ 3-36-6 व्यथन्ते व्यथयन्ति ॥ 3-36-7 सुविचारिते निश्चिते सति ॥ 3-36-13 सैन्यस् सैन्यसंबन्धिनः सर्वे। मात्राभिरंशपरिच्छेदैः ॥ 3-36-16 राजपिण्डो राजदत्तो ग्रासो निर्वेश्य आनृण्यार्थं शोधनीयः ॥ 3-36-20 लाघवं शीघ्रताम् ॥ 3-36-31 साधयिष्यति राज्यम् ॥ 3-36-33 शाश्वतो देवो विष्णोरंशः सनातन इति क. ठ. ध. पाठः ॥ 3-36-39 अनुज्ञाय पृष्ट्वा ॥ 3-36-40 ब्रह्म मन्त्रम् ॥ 3-36-43 सामात्याः सपरिच्छदा इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|